Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
वैशंपायन उवाच
ततस्तीर्थवरं रामो ययौ बदरपाचनम्तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥१॥
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुविस्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ॥२॥
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृपभर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥३॥
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वहचरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ॥४॥
तस्यास्तु तेन वृत्तेन तपसा च विशां पतेभक्त्या च भगवान्प्रीतः परया पाकशासनः ॥५॥
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुःआस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥६॥
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥७॥
उवाच नियमज्ञा च कल्याणी सा प्रियंवदाभगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥८॥
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रतशक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन ॥९॥
व्रतैश्च नियमैश्चैव तपसा च तपोधनशक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥१०॥
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्उवाच नियमज्ञां तां सान्त्वयन्निव भारत ॥११॥
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रतेयदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥१२॥
तच्च सर्वं यथाभूतं भविष्यति वराननेतपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ॥१३॥
यानि स्थानानि दिव्यानि विबुधानां शुभाननेतपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ॥१४॥
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाःदेवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ॥१५॥
पचस्वैतानि सुभगे बदराणि शुभव्रतेपचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ॥१६॥
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सःअविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमेइन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ॥१७॥
तस्या जिज्ञासनार्थं स भगवान्पाकशासनःबदराणामपचनं चकार विबुधाधिपः ॥१८॥
ततः स प्रयता राजन्वाग्यता विगतक्लमातत्परा शुचिसंवीता पावके समधिश्रयत्अपचद्राजशार्दूल बदराणि महाव्रता ॥१९॥
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभन च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥२०॥
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयःअकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥२१॥
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शनादग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ॥२२॥
चरणौ दह्यमानौ च नाचिन्तयदनिन्दितादुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ॥२३॥
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरःततः संदर्शयामास कन्यायै रूपमात्मनः ॥२४॥
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥२५॥
तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभेदेहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥२६॥
इदं च ते तीर्थवरं स्थिरं लोके भविष्यतिसर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥२७॥
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरात्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥२८॥
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताःवृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥२९॥
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वनेअनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥३०॥
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनःअरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ॥३१॥
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥३२॥
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाःतामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥३३॥
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शनाक्षीणोऽन्नसंचयो विप्र बदराणीह भक्षयततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ॥३४॥
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्ययाअधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥३५॥
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदाअतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥३६॥
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाःअहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ॥३७॥
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात्ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ॥३८॥
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥३९॥
ततः संदर्शयामास स्वरूपं भगवान्हरःततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ॥४०॥
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥४१॥
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥४२॥
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनःवरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥४३॥
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदिभगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम्सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ॥४४॥
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिःप्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ॥४५॥
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ॥४६॥
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धयायथा त्वया महाभागे मदर्थं संशितव्रते ॥४७॥
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितःतथा चेदं ददाम्यद्य नियमेन सुतोषितः ॥४८॥
विशेषं तव कल्याणि प्रयच्छामि वरं वरेअरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ॥४९॥
तस्य चाहं प्रसादेन तव कल्याणि तेजसाप्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ॥५०॥
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितःस स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ॥५१॥
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥५२॥
गते वज्रधरे राजंस्तत्र वर्षं पपात हपुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ॥५३॥
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाःमारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ॥५४॥
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम्तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ॥५५॥
जनमेजय उवाच
का तस्या भगवन्माता क्व संवृद्धा च शोभनाश्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ॥५६॥
वैशंपायन उवाच
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनःदृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ॥५७॥
स तु जग्राह तद्रेतः करेण जपतां वरःतदावपत्पर्णपुटे तत्र सा संभवच्छुभा ॥५८॥
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनःनाम चास्याः स कृतवान्भारद्वाजो महामुनिः ॥५९॥
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदिस च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥६०॥
तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यःजगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् ॥६१॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 47

0
Adhyaya 47Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0