Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Bala Kanda
ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत्॥ ॥१॥
उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम्॥ ॥२॥
एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे॥ ॥३॥
स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः॥ ॥४॥
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात्॥ ॥५॥
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।एवम् पितामहात् तस्मात् वरदानेन गर्वितः॥ ॥६॥
उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप॥ ॥७॥
इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।पितरम् रोचयामास तदा दशरथम् नृपम्॥ ॥८॥
स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः॥ ॥९॥
स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः॥ ॥१०॥
ततो वै यजमानस्य पावकात् अतुल प्रभम् ।प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम्॥ ॥११॥
कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम्॥ ॥१२॥
शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम्॥ ॥१३॥
दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम्॥ ॥१४॥
दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव॥ ॥१५॥
समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप॥ ॥१६॥
ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते॥ ॥१७॥
अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया॥ ॥१८॥
इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम्॥ ॥१९॥
भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप॥ ॥२०॥
तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम्॥ ॥२१॥
अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।मुदा परमया युक्तः चकार अभिप्रदक्षिणम्॥ ॥२२॥
ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः॥ ॥२३॥
ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत॥ ॥२४॥
हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः॥ ॥२५॥
सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः॥ ॥२६॥
कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः॥ ॥२७॥
कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम्॥ ॥२८॥
अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक्॥ ॥२९॥
ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः॥ ॥३०॥
ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा॥ ॥३१॥
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः॥ ॥३२॥
End of chapter ॥
1
Valmiki Ramayana · Bala Kanda

Sarga 16

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0