Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या ।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम्॥ ॥१॥
हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः ।कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे॥ ॥२॥
किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः ।क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति॥ ॥३॥
ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः ।माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः॥ ॥४॥
वसन्तः काल कालेषु वने मूल फल अशनाः ।न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः॥ ॥५॥
भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः ।ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः॥ ॥६॥
अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः ।मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम्॥ ॥७॥
कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् ।प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला॥ ॥८॥
यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः ।किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ॥ ॥९॥
सर्वैः एव समागम्य वाक् इयम् समुदाहृता ।राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः॥ ॥१०॥
अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु ।होम काले तु संप्राप्ते पर्व कालेषु च अनघ॥ ॥११॥
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः ।राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम्॥ ॥१२॥
गतिम् मृगयमाणानाम् भवान् नः परमा गतिः ।कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान्॥ ॥१३॥
चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् ।बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव॥ ॥१४॥
तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः ।तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः॥ ॥१५॥
रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने ।मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम्॥ ॥१६॥
ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे ।संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम्॥ ॥१७॥
मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा ।अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम्॥ ॥१८॥
न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम्॥ ॥१९॥
अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः ।मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः॥ ॥२०॥
परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते ।सदृशम् च अनुरूपम् च कुलस्य तव शोभने ।सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी॥ ॥२१॥
इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् ।रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि॥ ॥२२॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 10

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0