Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत्॥ ॥१॥
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि॥ ॥२॥
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।अभिधान प्रगल्भस्य तव प्रत्यय घातिनी॥ ॥३॥
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः॥ ॥४॥
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा॥ ॥५॥
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।विदारितस्य मत् बाणैः मही पास्यति शोणितम्॥ ॥६॥
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव॥ ॥७॥
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे॥ ॥८॥
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥ ॥९॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः॥ ॥१०॥
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः॥ ॥११॥
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः॥ ॥१२॥
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।खरो निर्भर्त्सयामास रोषात् खरतर स्वरः॥ ॥१३॥
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे॥ ॥१४॥
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः॥ ॥१५॥
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।स ददर्श महा सालम् अविदूरे निशाचरः॥ ॥१६॥
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।स तम् उत्पाटयामास संदष्ट दशन च्छदम्॥ ॥१७॥
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत्॥ ॥१८॥
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम्॥ ॥१९॥
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।निर्बिभेद सहस्रेण बाणानाम् समरे खरम्॥ ॥२०॥
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः॥ ॥२१॥
विकल स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम्॥ ॥२२॥
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः॥ ॥२३॥
ततः पावक संकाशम् वधाय समरे शरम् ।खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम्॥ ॥२४॥
स तत् दत्तम् मघवता सुर राजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरम् प्रति॥ ॥२५॥
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।रामेण धनुरायम्य खरस्य उरसि च आपतत्॥ ॥२६॥
स पपात खरो भूमौ दह्यमानः शर अग्निना ।रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः॥ ॥२७॥
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।बलो वा इन्द्र अशनि हतो निपपात हतः खरः॥ ॥२८॥
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः॥ ॥२९॥
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः॥ ॥३०॥
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।खर दूषण मुख्यानाम् निहतानि महामृधे॥ ॥३१॥
अहो बत महत् कर्म रामस्य विदित आत्मनः ।अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते॥ ॥३२॥
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः॥ ॥३३॥
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः॥ ॥३४॥
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः॥ ॥३५॥
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज॥ ॥३६॥
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया॥ ॥३७॥
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।ततो रामः तु विजयी पूज्यमानो महर्षिभिः॥ ॥३८॥
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम्॥ ॥३९॥
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा॥ ॥४०॥
ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा॥ ॥४१॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 30

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0