Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह॥ ॥१॥
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत्॥ ॥२॥
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान्॥ ॥३॥
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः॥ ॥४॥
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण॥ ॥५॥
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च॥ ॥६॥
संप्रहारः तु सुमहान् भविष्यति न संशयः ।अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः॥ ॥७॥
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते॥ ॥८॥
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः॥ ॥९॥
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः॥ ॥१०॥
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।आपदम् शंकमानेन पुरुषेण विपश्चिता॥ ॥११॥
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम्॥ ॥१२॥
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम्॥ ॥१३॥
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान्॥ ॥१४॥
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत्॥ ॥१५॥
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत्॥ ॥१६॥
स तेन अग्नि निकाशेन कवचेन विभूषितः ।बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः॥ ॥१७॥
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः॥ ॥१८॥
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।समेयुः च महात्मनो युद्ध दर्शन कांक्षया॥ ॥१९॥
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः॥ ॥२०॥
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान्॥ ॥२१॥
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम्॥ ॥२२॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति॥ ॥२३॥
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।जात कौतूहलात् तस्थुर् विमानस्थाः च देवता॥ ॥२४॥
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा॥ ॥२५॥
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः॥ ॥२६॥
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम्॥ ॥२७॥
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम्॥ ॥२८॥
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम्॥ ॥२९॥
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः॥ ॥३०॥
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।तत् च अनीकम् महावेगम् रामम् समनुवर्तत॥ ॥३१॥
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः॥ ॥३२॥
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान्॥ ॥३३॥
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन्॥ ॥३४॥
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी॥ ॥३५॥
तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम्॥ ॥३६॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 34

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0