Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः॥ ॥१॥
स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः ।न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ॥ ॥२॥
उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः ।आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः॥ ॥३॥
अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् ।काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम्॥ ॥४॥
एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे ।क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः॥ ॥५॥
सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः ।स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः॥ ॥६॥
संरक्त नयनः श्रीमान् तप्त कांचन भूषणः ।क्रोधेन महता आविष्टो नील जीमूत सन्निभः॥ ॥७॥
दश आस्यो विंशति भुजो बभूव क्षणदा चरः ।स परिव्राजक च्छद्म महाकायो विहाय तत्॥ ॥८॥
प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः ।रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम्॥ ॥९॥
स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव ।वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत्॥ ॥१०॥
त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि ।माम् आश्रय वरारोहे तव अहम् सदृशः पतिः॥ ॥११॥
माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव ।न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम्॥ ॥१२॥
त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् ।राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम्॥ ॥१३॥
कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि ।यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम्॥ ॥१४॥
अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः ।इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम्॥ ॥१५॥
अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः ।जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव॥ ॥१६॥
वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः ।ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना॥ ॥१७॥
तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् ।प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः॥ ॥१८॥
स च मायामयो दिव्यः खर युक्तः खर स्वनः ।प्रत्यदृश्यत हेमांगो रावणस्य महारथः॥ ॥१९॥
ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः ।अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा॥ ॥२०॥
सा गृहीता अतिचुक्रोश रावणेन यशस्विनी ।रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने॥ ॥२१॥
ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव ।विवेष्टमानाम् आदाय उत्पपात अथ रावणः॥ ॥२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा॥ ॥२३॥
हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक ।ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा॥ ॥२४॥
जीवितम् सुखम् अर्थाम् च धर्म हेतोः परित्यजन् ।ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि॥ ॥२५॥
ननु नाम अविनीतानाम् विनेता असि परंतप ।कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम्॥ ॥२६॥
ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् ।कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये॥ ॥२७॥
त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः ।जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि॥ ॥२८॥
हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह ।ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः॥ ॥२९॥
आमंत्रये जनस्थानम् कर्णिकारान् च पुष्पितान् ।क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः॥ ॥३०॥
हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् ।क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः॥ ॥३१॥
दैवतानि च यान्ति अस्मिन् वने विविध पादपे ।नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम्॥ ॥३२॥
यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत ।सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि॥ ॥३३॥
ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् ।विवश अपहृता सीता रावणेन इति शंसत॥ ॥३४॥
विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः ।आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि॥ ॥३५॥
सा तदा करुणा वाचो विलपंती सुदुःखिता ।वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना॥ ॥३६॥
सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता ।समाक्रंदत् भयपरा दुःख उपहतया गिरा॥ ॥३७॥
जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् ।अनेन राक्षसेद्रेण करुणम् पाप कर्मणा॥ ॥३८॥
न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर ।सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः॥ ॥३९॥
रामाय तु यथा तत्त्वम् जटायो हरणम् मम ।लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः॥ ॥४०॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 49

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0