Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Aranya Kanda
संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् ।आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत॥ ॥१॥
स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः ।प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन्॥ ॥२॥
स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः ।अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम्॥ ॥३॥
अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् ।वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे॥ ॥४॥
मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् ।अधोगत मुखीम् सीताम् ताम् अभ्येत्य निशाचरः॥ ॥५॥
ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः ।स बलात् दर्शयामास गृहम् देव गृह उपमम्॥ ॥६॥
हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् ।नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम्॥ ॥७॥
दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा ।वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः॥ ॥८॥
दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् ।सोपानम् कांचनम् चित्रम् आरुरोह तया सह॥ ॥९॥
दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः ।हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः॥ ॥१०॥
सुधा मणि विचित्राणि भूमि भागानि सर्वशः ।दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम्॥ ॥११॥
दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः ।रावणो दर्शयामास सीताम् शोक परायणाम्॥ ॥१२॥
दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् ।उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया॥ ॥१३॥
दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः ।वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान्॥ ॥१४॥
तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् ।सहस्रम् एकम् एकस्य मम कार्य पुरःसरम्॥ ॥१५॥
यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् ।जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी॥ ॥१६॥
बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः ।तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये॥ ॥१७॥
साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम ।भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि॥ ॥१८॥
परिक्षिप्ता समुद्रेण लंका इयम् शत योजना ।न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः॥ ॥१९॥
न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु ।अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत्॥ ॥२०॥
राज्य भ्रष्टेन दीनेन तापसेन पदातिना ।किम् करिष्यसि रामेण मानुषेण अल्प तेजसा॥ ॥२१॥
भजस्व सीते माम् एव भर्ता अहम् सदृशः तव ।यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह॥ ॥२२॥
दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने ।का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः॥ ॥२३॥
न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः ।दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम्॥ ॥२४॥
त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने ।विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम्॥ ॥२५॥
लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय ।त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम्॥ ॥२६॥
अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् ।दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम्॥ ॥२७॥
यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि ।इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि॥ ॥२८॥
भूषणानि च मुख्यानि तानि सेव मया सह ।पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे॥ ॥२९॥
विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे ।विशालम् रमणीयम् च तत् विमानम् मनो जवम्॥ ॥३०॥
तत्र सीते मया सार्धम् विहरस्व यथा सुखम् ।वदनम् पद्म संकाशम् विमलम् चारु दर्शनम्॥ ॥३१॥
शोक आर्तम् तु वरारोहे न भ्राजति वर आनने ।एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना॥ ॥३२॥
पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् ।ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम्॥ ॥३३॥
उवाच वचनम् वीरो रावणो रजनी चरः ।अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते॥ ॥३४॥
आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति ।एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ॥ ॥३५॥
प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते ।इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः॥ ॥३६॥
न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह ।एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् ।कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते॥ ॥३७॥
End of chapter ॥
1
Valmiki Ramayana · Aranya Kanda

Sarga 55

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0