Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
तम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक महार्णवेन ।पश्यन् तदा वालि अनुजः तरस्वी भ्रात्रुः वधेन अप्रतिमेन तेपे॥ ॥१॥
स बाष्प पूर्णेन मुखेन् पश्यन् क्षणेन निर्विण्ण मना मनस्वी ।जगाम रामस्य शनैः समीपम् भृत्यैः वृत्तः संपरिदूयमानः॥ ॥२॥
स तम् समासाद्य गृहीत चापम् उदात्तम् आशी विष तुल्य बाणम् ।यशश्विनम् लक्षण लक्षित अंगम् अवस्थितम् राघवम् इति उवाच॥ ॥३॥
यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृउष्ट फलम् च कर्म ।मम अद्य भोगेषु नरेन्द्र सूनो मनो निवृत्तम् हत जिवितेन॥ ॥४॥
अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख तप्ते ।हते नृपे संशयिते अंगदे च न राम राज्ये रमते मनो मे॥ ॥५॥
क्रोधाद् अमर्षाद् अतिविप्रधर्षाद् भ्रातुर् वधो मे अनुमतः पुरस्तात् ।हते तु इदानीम् हरि यूधपे अस्मिन् सुतीक्ष्णम् इक्ष्वाकु वर प्रतप्स्ये॥ ॥६॥
श्रेयो अद्य मन्ये मम शैल मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके ।यथा तथा वर्तयतः स्व वृत्या न इमम् निहत्य त्रिदिवसय लाभः॥ ॥७॥
न त्वा जिघांसामि चर इति यत् माम् अयम् महात्मा मतिमान् उवाच ।तस्य एवे तत् राम वचो अनुरूपम् इदम् वचः कर्म च मे अनुरूपम्॥ ॥८॥
भ्राता कथम् नाम महा गुणस्य भ्रातुर् वधम् राम विरोचयेत ।राजस्य दुःखस्य च वीर सारम् विचिन्तयन् काम पुरस्कृतो अपि॥ ॥९॥
वधो हि मे मतो न असीत् स्व महात्म्या अव्यतिक्रमात् ।मम आसीत् बुद्धिः दुरात्म्यात् प्राण हारी व्यतिक्रमः॥ ॥१०॥
द्रुम शाका अवभग्नो अहम् मुहुर्तम् परिनिष्टनन् ।स्वान्तयित्वा अनेन उक्तः न पुनः कर्तुम् अर्हसि॥ ॥११॥
भ्रातृत्वम् आर्य भावः च धर्मः च अनेन रक्षितः ।मया क्रोधः च कामः च कपित्वम् च प्रदर्शितम्॥ ॥१२॥
अचिंतनीयम् परिवर्जनीयम्अनीप्सनीयम् न अन्वेक्षणीयम् ।प्राप्तो अस्मि पाप्मानम् वयस्यभ्रातुः वध त्वाष्ट्र वधात् इव इन्द्रः॥ ॥१३॥
पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च ।को नाम पाप्मानम् इमम् सहेत शाखा मृगस्य प्रतिपत्तुम् इच्छेत्॥ ॥१४॥
ना अर्हामि सन्मानम् इमम् प्रजानाम् न यौव राज्यम् कुत एव राज्यम् ।अधर्म युक्तम् कुल नाश युक्तम् एवम् विधम् राघव कर्म कृत्वा॥ ॥१५॥
पापस्य कर्ता अस्मि विगर्हितस्यक्षुद्रस्य लोक अपकृतस्य लोके ।शोको महान् मम अभिवर्तते अयम्वृष्टेः यथा निम्नम् इव अम्बु वेगः॥ ॥१६॥
सोदर्य अघाता अपर गात्र वालः संताप हस्त अक्षि शिरो विषाणः ।एनोमयो माम् अभिहन्ति हस्ती दृप्तो नदी कूलम् इव प्रवृद्धः॥ ॥१७॥
अंहो बतेदम् नृ वर अविषह्य निवर्तते मे हृदि साधु वृत्तम् ।अग्नौ विवर्णम् परितप्य मानम् किट्टम् यथा राघव जात रूपम्॥ ॥१८॥
महा बलानाम् हरि यूथपानाम् इदम् कुलम् राघव मन् निमित्तम् ।अस्य अंगदस्य अपि च शोक तापात् अर्थ स्थित प्राणम् इतीव मन्ये॥ ॥१९॥
सुतः सुलभः सुजनः सुवश्यः कुतः तु पुत्रः सदृशः अंगदेन ।न च अपि विद्येत स वीर देशो यस्मिन् भवेत् सोदर संनिकर्षः॥ ॥२०॥
अद्य अंगदो वीर वरो न जीवेत् जीवेत माता परि पालनार्थम् ।विना तु पुत्रम् परिताप दीना सा नैव जीवेत् इत् निश्चितम् मे॥ ॥२१॥
सो अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम्भ्रत्रा च पुत्रेण च सख्यम् इच्छन् ।इमे विचेष्यन्ति हरि प्रवीराःसीताम् निदेशे परिवर्तमानाः॥ ॥२२॥
कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुजेन्द्र पुत्र ।कुलस्य हन्तारम् अजीवन अर्हम् राम अनुजानीहि कृत अगसम् माम्॥ ॥२३॥
इति एवम् आर्तस्य रघु प्रवीरः श्रुत्वा वचो वालि जघन्य जस्य ।संजात बाष्प पर वीर हन्ता रामो मुहूर्तम् विमना बभूव॥ ॥२४॥
तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति क्षमावान् भुवनस्य गोप्ता ।रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम्॥ ॥२५॥
ताम् चारु नेत्राम् कपि सिंह नाथाम् पतिम् समाश्लिष्य तद शयानाम् ।उत्थापयामासुः अदीन सत्त्वाम् मंत्रि प्रधानाः कपि राज पत्नीम्॥ ॥२६॥
सा विस्फुरंती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना ।ददर्श रामम् शर चाप पाणिम् स्व तेजसा सूर्यम् इव ज्वलंतम्॥ ॥२७॥
सु संवृत्तम् पार्थिव लक्षणैः च तम् चारु नेत्रम् मृगशाव नेत्रा ।अदृष्ट पूर्वम् पुरुष प्रधानम् अयम् स काकुत्स्थ इति प्रजज्ञे॥ ॥२८॥
तस्य इन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपम् आर्या ।आर्त अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती॥ ॥२९॥
तम् सा समासाद्य विशुद्ध सत्त्वम् शोकेन संभ्रांत शरीर भावा ।मनस्विनी वाक्यम् उवाच तारा रामम् रण उत्कर्षण लब्ध लक्ष्यम्॥ ॥३०॥
त्वम् अप्रमेयः च दुरासदः च जितेन्द्रियः च उत्तम धर्मकः च ।अक्षीण कीर्तिः च विचक्षणः च क्षिति क्षमवान् क्षतजोपमा अक्षः॥ ॥३१॥
त्वम् आत्त बाणासन बाण पाणिः महाबलः संहनन उपपन्नः ।मनुष्य देहाभुदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः॥ ॥३२॥
एन एव बाणेन हतः प्रियो मे तेन एव बाणेन हि माम् जहि हि ।हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली॥ ॥३३॥
स्वर्गे अपि पद्म अमल पत्र नेत्र समेत्य संप्रेक्ष्य च माम् अपश्यन् ।न हि एष उच्चावच ताम्र चूडा विचित्र वेषाः अप्सरो अभजिष्यत्॥ ॥३४॥
स्वर्गे अपि शोकम् विवर्णताम् च मया विना प्राप्स्यति वीर वाली ।रम्ये नगेन्द्रस्य तटा अवकाशे विदेह कन्या अरहितो यथा त्वम्॥ ॥३५॥
त्वम् वेत्थ तावत् वनिता विहीनःप्राप्नोति दुःखम् पुरुषः कुमारः ।तत् त्वम् प्रजानन् जहि माम् न वालीदुःखम् मम अदर्शनजम् भजेत॥ ॥३६॥
यत् च अपि मन्येत भवान् महात्मास्त्री घात दोषः तु भवेन् न मह्यम् ।आत्मा इयम् अस्य इति हि माम् जहि त्वम्न स्त्री वधः स्यात् मनुजेन्द्र पुत्र॥ ॥३७॥
शास्त्र प्रयोगात् विविधाः च वेदात् अनन्य रूपाः पुरुषस्य दाराः ।दार प्रदानात् न हि दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके॥ ॥३८॥
त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर ।अनेन दानेन न लप्स्यसे त्वम् अधर्म योगम् मम वीर घातात्॥ ॥३९॥
आर्ताम् अनाथाम् अपनीयमानाम् एवम् गताम् न अर्हसि माम् अहन्तुम् ।अहम् हि मातंग विलास गामिना प्लवंगमानाम् ऋषभेण धीमता ।विना वरार्होत्तम हेम मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम्॥ ॥४०॥
इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे ।मा वीर भार्ये विमतिम् कुरुष्व लोको हि सर्वो विहितो विधात्रा॥ ॥४१॥
तम् चैव सर्वम् सुख दुःख योगम् लोको अब्रवीत् तेन कृतम् विधात्रा ।त्रयो अपि लोका विहितम् विधानम् न अति क्रमन्ते वशगा हि तस्य॥ ॥४२॥
प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्रप्स्यति यौव राज्यम् ।धात्र विधानम् विहितम् तथा एव न शूर पत्न्यः परिदेवयन्ति॥ ॥४३॥
आश्वासिता तेन महत्मना तु प्रभाव युक्तेन परंतपेन ।सा वीर पत्नी ध्वनता मुखेन सुवेष रूपा विरराम् तारा॥ ॥४४॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 24

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0