Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् ।वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत्॥ ॥१॥
विसर्जयित्वा स हरीन् सहस्रान् तान् कृत कर्मणः ।मेने कृतार्थम् आत्मानम् राघवम् च महाबलम्॥ ॥२॥
स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन्॥ ॥३॥
किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते ।तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ ॥४॥
सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह ।एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया॥ ॥५॥
तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् ।विसर्जयामास तदा तारा अद्याः च एव योषितः॥ ॥६॥
एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् ।तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः॥ ॥७॥
बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः ।तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः॥ ॥८॥
उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः ।श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः॥ ॥९॥
समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् ।ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः॥ ॥१०॥
लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् ।इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम्॥ ॥११॥
बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः ।पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि॥ ॥१२॥
शुक्लैः च वाल व्यजनैः धूयमानैः समंततः ।शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः॥ ॥१३॥
निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् ।स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः॥ ॥१४॥
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम्॥ ॥१५॥
अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः ।आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत्॥ ॥१६॥
कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा ।तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम्॥ ॥१७॥
वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् ।पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम्॥ ॥१८॥
प्रेम्णा च बहुमानात् च राघवः परिषस्वजे ।परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत्॥ ॥१९॥
निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः ।धर्मम् अर्थम् च कामम् च काले यः तु निषेवते॥ ॥२०॥
विभज्य सततम् वीर स राजा हरिसत्तम ।हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते॥ ॥२१॥
स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः॥ ॥२२॥
त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते ।उद्योग समयः तु एष प्राप्तः शत्रु निषूदन॥ ॥२३॥
संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः ।एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत्॥ ॥२४॥
प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया॥ ॥२५॥
तव देव प्रसदात् च भ्रातुः च जयताम् वर ।कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः॥ ॥२६॥
एते वानर मुख्याः च शतशः शत्रु सूदन ।प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान्॥ ॥२७॥
ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव ।कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः॥ ॥२८॥
देव गन्धर्व पुत्राः च वानराः काम रूपिणः ।स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव॥ ॥२९॥
शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः ।अयुतैः च आवृता वीरा शंकुभिः च परंतप॥ ॥३०॥
अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः ।समुद्राः च परार्धाः च हरयो हरि यूथपाः॥ ॥३१॥
आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः ।मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः॥ ॥३२॥
ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे ।निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम्॥ ॥३३॥
ततः समुद्योगम् अवेक्ष्य वीर्यवान्हरि प्रवीरस्य निदेश वर्तिनः ।बभूव हर्षात् वसुधा अधिप आत्मजःप्रबुद्ध नील उत्पल तुल्य दर्शनः॥ ॥३४॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 38

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0