Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Kishkindha Kanda
शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः ।श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः॥ ॥१॥
ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः ।चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति॥ ॥२॥
सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति ।कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः॥ ॥३॥
एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः ।अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा॥ ॥४॥
बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् ।मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ॥ ॥५॥
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ ।लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम॥ ॥६॥
राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम्॥ ॥७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः॥ ॥८॥
तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट्॥ ॥९॥
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा ।रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् ।परिश्रान्तः च वृद्धः च रावणेन हतो रणे॥ ॥१०॥
एवम् गृध्रो हतः तेन रावणेन बलीयसा ।संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम्॥ ॥११॥
ततो मम पितृव्येण सुग्रीवेण महात्मना ।चकार राघवः सख्यम् सः अवधीत् पितरम् मम॥ ॥१२॥
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।निहत्य वालिनम् रामः ततः तम् अभिषेचयत्॥ ॥१३॥
स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः ।राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम्॥ ॥१४॥
एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः ।वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव॥ ॥१५॥
ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः ।अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम्॥ ॥१६॥
मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् ।व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः॥ ॥१७॥
ते वयम् कपि राजस्य सर्वे वचन कारिणः ।कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः॥ ॥१८॥
क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे ।गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम्॥ ॥१९॥
End of chapter ॥
1
Valmiki Ramayana · Kishkindha Kanda

Sarga 57

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0