Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम्॥ ॥१॥
समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम्॥ ॥२॥
अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम्॥ ॥३॥
सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा॥ ॥४॥
किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ॥ ॥५॥
अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।रोष गद्गदया वाचा सम्रब्धः परुषम् वचः॥ ॥६॥
न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः॥ ॥७॥
रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम्॥ ॥८॥
आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते॥ ॥९॥
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम्॥ ॥१०॥
किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम्॥ ॥११॥
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः॥ ॥१२॥
हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत्॥ ॥१३॥
अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम्॥ ॥१४॥
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ॥ ॥१५॥
रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम्॥ ॥१६॥
उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान्॥ ॥१७॥
ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः॥ ॥१८॥
तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः॥ ॥१९॥
चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।इतो गच्चत रामस्य व्यवसायम् परीक्षथ॥ ॥२०॥
मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति॥ ॥२१॥
विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः॥ ॥२२॥
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम्॥ ॥२३॥
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।ततस्तम् तु महात्मानम् चारा राक्षससत्तमम्॥ ॥२४॥
कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ॥ ॥२५॥
प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः॥ ॥२६॥
ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्चया॥ ॥२७॥
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः॥ ॥२८॥
अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः॥ ॥२९॥
पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।ततो दशग्रीवम् उपस्थितास् ते ।चारा बहिर् नित्य चरा निशा चराः ।गिरेः सुवेलस्य समीप वासिनम् ।न्यवेदयन् भीम बलम् महाबलाः॥ ॥३०॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 29

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0