Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी॥ ॥१॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम्॥ ॥२॥
राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे॥ ॥३॥
जहि दारय चैहीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे॥ ॥४॥
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव॥ ॥५॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान्॥ ॥६॥
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्॥ ॥७॥
वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः॥ ॥८॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः॥ ॥९॥
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः॥ ॥१०॥
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः॥ ॥११॥
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः॥ ॥१२॥
हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्तानां वानराणां च सम्बभूवातिदारुणः॥ ॥१३॥
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः॥ ॥१४॥
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा॥ ॥१५॥
सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा॥ ॥१६॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः॥ ॥१७॥
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे॥ ॥१८॥
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः॥ ॥१९॥
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ॥ ॥२०॥
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन्॥ ॥२१॥
तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः॥ ॥२२॥
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम्॥ ॥२३॥
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी॥ ॥२४॥
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा॥ ॥२५॥
तेन शब्देन महता प्रवृद्धेन समन्ततः ।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः॥ ॥२६॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्॥ ॥२७॥
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणिं निजघानाशु सारथिं च हयानपि॥ ॥२८॥
वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महाकायस्तत्रैवान्तरधीयत॥ ॥२९॥
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ॥ ॥३०॥
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम्॥ ॥३१॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम्॥ ॥३२॥
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्॥ ॥३३॥
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत्॥ ॥३४॥
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः॥ ॥३५॥
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः॥ ॥३६॥
सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः॥ ॥३७॥
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः॥ ॥३८॥
मायया संवृतस्तत्र मोहयन् राघवौ युधि ।अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ॥ ॥३९॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः॥ ॥४०॥
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा॥ ॥४१॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 44

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0