Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी॥ ॥१॥
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम्॥ ॥२॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्॥ ॥३॥
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्॥ ॥४॥
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्॥ ॥५॥
मनोहरं सर्वसुखं कारयामास राक्षसः ।सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव॥ ॥६॥
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते॥ ॥७॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः॥ ॥८॥
उद्यानानि च चित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः॥ ॥९॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः॥ ॥१०॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः॥ ॥११॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम्॥ ॥१२॥
स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति॥ ॥१३॥
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।सभायां दर्शयामास तमासीनं दशाननम्॥ ॥१४॥
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत॥ ॥१५॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत्॥ ॥१६॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं वीर वृत्तस्य च कुलस्य च॥ ॥१७॥
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते॥ ॥१८॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः॥ ॥१९॥
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः॥ ॥२०॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः॥ ॥२१॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम्॥ ॥२२॥
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति॥ ॥२३॥
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम्॥ ॥२४॥
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम्॥ ॥२५॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः॥ ॥२६॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत॥ ॥२७॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम्॥ ॥२८॥
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर॥ ॥२९॥
तपसा निर्जितश्चैव सखा भव ममानघ ।देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम्॥ ॥३०॥
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात्॥ ॥३१॥
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः॥ ॥३२॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव॥ ॥३३॥
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह॥ ॥३४॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः॥ ॥३५॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।महेश्वरसखित्वं तु मूढ श्रावयते किल॥ ॥३६॥
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।यदेतावन्मया कालं दूत तस्य तु मर्षितम्॥ ॥३७॥
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः॥ ॥३८॥
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः॥ ॥३९॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम्॥ ॥४०॥
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम्॥ ॥४१॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः॥ ॥४२॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 13

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0