Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 1
Mahabharata · Adi Parva
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनःचित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिःअपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषुनिर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य चअथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वयाकालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
सूत उवाच
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनःसमीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाःकथिताश्चापि विधिवद्या वैशंपायनेन वै ॥९॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताःबहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥१०॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्गतवानस्मि तं देशं युद्धं यत्राभवत्पुरापाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिहआयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसःकृताभिषेकाः शुचयः कृतजप्या हुताग्नयःभवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताःइतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
ऋषय ऊचुःद्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणासुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणःसूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणःसंहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
सूत उवाच
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
असच्च सच्चैव च यद्विश्वं सदसतः परम्परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
महर्षेः पूजितस्येह सर्वलोके महात्मनःप्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
आचख्युः कवयः केचित्संप्रत्याचक्षते परेआख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैःछन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृतेबृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षतेयस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिःब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त येततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुःविश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथाततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
राजर्षयश्च बहवः सर्वैः समुदिता गुणैःआपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥३५॥
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम्पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्ययेदृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
एवमेतदनाद्यन्तं भूतसंहारकारकम्अनादिनिधनं लोके चक्रं संपरिवर्तते ॥३८॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि चत्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥३९॥
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुःसविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरःदेवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताःदशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
दश पुत्रसहस्राणि दशज्योतेर्महात्मनःततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताःतेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशःसंभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि चलोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥४७॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि चइह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत्इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
मन्वादि भारतं केचिदास्तीकादि तथापरेतथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणःव्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतःमातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरात्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव चजगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशःशशास शिष्यमासीनं वैशंपायनमन्तिके ॥५७॥
स सदस्यैः सहासीनः श्रावयामास भारतम्कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिःअनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन्गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाःदुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाःमाद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥६६॥
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन चअरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥६७॥
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम्जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥६८॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रतिधर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताःमेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वःपाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदाशिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरेयदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन्अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाःआसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवःशब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि चन्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन चतुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैःयुधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥८५॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन चघातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥८६॥
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततःमणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
विमानप्रतिमां चापि मयेन सुकृतां सभाम्पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात्प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि चकथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियःतच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदतद्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥९३॥
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥९४॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथाधृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥९५॥
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसिश्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
न विग्रहे मम मतिर्न च प्रीये कुरुक्षयेन मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाःअहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥९८॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसःतच्चावहसनं प्राप्य सभारोहणदर्शने ॥९९॥
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणेनिरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथागान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥१००॥
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणुश्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतःततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥१०१॥
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम्कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय ॥१०२॥
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेनइन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय ॥१०३॥
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेनअग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय ॥१०४॥
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम्अन्वागतं भ्रातृभिरप्रमेयै;स्तदा नाशंसे विजयाय संजय ॥१०५॥
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम्रजस्वलां नाथवतीमनाथव;त्तदा नाशंसे विजयाय संजय ॥१०६॥
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनायज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय ॥१०७॥
यदाश्रौषं स्नातकानां सहस्रै;रन्वागतं धर्मराजं वनस्थम्भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय ॥१०८॥
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धेअवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय ॥१०९॥
यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय ॥११०॥
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान्तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय संजय ॥१११॥
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेनस्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय ॥११२॥
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूतप्रश्नानुक्तान्विब्रुवन्तं च सम्य;क्तदा नाशंसे विजयाय संजय ॥११३॥
यदाश्रौषं मामकानां वरिष्ठा;न्धनंजयेनैकरथेन भग्नान्विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय ॥११४॥
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनायतां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय संजय ॥११५॥
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्यअक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय ॥११६॥
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्यअहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय ॥११७॥
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्यस्येमां गां विक्रममेकमाहु;स्तदा नाशंसे विजयाय संजय ॥११८॥
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्यतं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय ॥११९॥
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम्आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय ॥१२०॥
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम्भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय ॥१२१॥
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीतिहित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय संजय ॥१२२॥
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम्त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय ॥१२३॥
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वैकृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय ॥१२४॥
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम्नैषां कश्चिद्वध्यते दृश्यरूप;स्तदा नाशंसे विजयाय संजय ॥१२५॥
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम्शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय ॥१२६॥
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैःभीष्मं कृत्वा सोमकानल्पशेषां;स्तदा नाशंसे विजयाय संजय ॥१२७॥
यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेनभूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय ॥१२८॥
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयायनित्यं चास्माञ्श्वापदा व्याभषन्त;स्तदा नाशंसे विजयाय संजय ॥१२९॥
यदा द्रोणो विविधानस्त्रमार्गा;न्विदर्शयन्समरे चित्रयोधीन पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय संजय ॥१३०॥
यदाश्रौषं चास्मदीयान्महारथा;न्व्यवस्थितानर्जुनस्यान्तकायसंशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय संजय ॥१३१॥
यदाश्रौषं व्यूहमभेद्यमन्यै;र्भारद्वाजेनात्तशस्त्रेण गुप्तम्भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय संजय ॥१३२॥
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुःमहारथाः पार्थमशक्नुवन्त;स्तदा नाशंसे विजयाय संजय ॥१३३॥
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय ॥१३४॥
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेनसत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय ॥१३५॥
यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान्पाययित्वोपवृत्तान्पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय ॥१३६॥
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेनसर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय संजय ॥१३७॥
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्ययातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय ॥१३८॥
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिःधनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय ॥१३९॥
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरःअमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय ॥१४०॥
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेनघटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय ॥१४१॥
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम्यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय ॥१४२॥
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय ॥१४३॥
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्येसमं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय ॥१४४॥
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन्नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय संजय ॥१४५॥
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम्तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय ॥१४६॥
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम्युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय संजय ॥१४७॥
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूतसदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय ॥१४८॥
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेनहतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय ॥१४९॥
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भःदुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय ॥१५०॥
यदाश्रौषं पाण्डवांस्तिष्ठमाना;न्गङ्गाह्रदे वासुदेवेन सार्धम्अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय ॥१५१॥
यदाश्रौषं विविधांस्तात मार्गा;न्गदायुद्धे मण्डलं संचरन्तम्मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय ॥१५२॥
यदाश्रौषं द्रोणपुत्रादिभिस्तै;र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान्कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय संजय ॥१५३॥
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय संजय ॥१५४॥
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम्अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय ॥१५५॥
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रेद्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ॥१५६॥
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्चकृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ॥१५७॥
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्तद्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम्संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥१५९॥
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितःमूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥१६०॥
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम्स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥१६१॥
तं तथावादिनं दीनं विलपन्तं महीपतिम्गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥१६२॥
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान्द्वैपायनस्य वदतो नारदस्य च धीमतः ॥१६३॥
महत्सु राजवंशेषु गुणैः समुदितेषु चजातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥१६४॥
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैःअस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥१६५॥
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम्सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥१६६॥
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम्विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥१६७॥
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव चरामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥१६९॥
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणापुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराःमहारथा महात्मानः सर्वैः समुदिता गुणैः ॥१७१॥
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिःअनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥१७२॥
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुःउशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥१७३॥
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिःअजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥१७४॥
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथःमहोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥१७५॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुःजानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलःधृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥१७७॥
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिःमहापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
एते चान्ये च बहवः शतशोऽथ सहस्रशःश्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥१७९॥
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाःराजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥१८०॥
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव चमाहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥१८१॥
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैःसर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥१८२॥
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युनालुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥१८३॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतःयेषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥१८४॥
निग्रहानुग्रहौ चापि विदितौ ते नराधिपनात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥१८५॥
भवितव्यं तथा तच्च नातः शोचितुमर्हसिदैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥१८६॥
विधातृविहितं मार्गं न कश्चिदतिवर्ततेकालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥१८७॥
कालः पचति भूतानि कालः संहरति प्रजाःनिर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥१८८॥
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान्कालः संक्षिपते सर्वाः प्रजा विसृजते पुनःकालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥१८९॥
अतीतानागता भावा ये च वर्तन्ति सांप्रतम्तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥१९०॥
सूत उवाच
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्भारताध्ययनात्पुण्यादपि पादमधीयतःश्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥१९१॥
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथाकीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥१९२॥
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनःस हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥१९३॥
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्ततेसंततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥१९५॥
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्अव्यक्तादि परं यच्च स एव परिगीयते ॥१९६॥
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताःप्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥१९७॥
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणःआसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥१९८॥
अनुक्रमणिमध्यायं भारतस्येममादितःआस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥१९९॥
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् ॥२००॥
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव चनवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥२०१॥
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥२०२॥
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततःअक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति ॥२०३॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥२०४॥
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुतेभ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥२०५॥
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणिअधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥२०६॥
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितःस दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥२०७॥
चत्वार एकतो वेदा भारतं चैकमेकतःसमागतैः सुरर्षिभिस्तुलामारोपितं पुरामहत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ॥२०८॥
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यतेनिरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥२०९॥
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कःप्रसह्य वित्ताहरणं न कल्क;स्तान्येव भावोपहतानि कल्कः ॥२१०॥
End of chapter ॥
1

0
Adhyaya 1Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0