Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 112
Mahabharata · Adi Parva
वैशंपायन उवाच
एवमुक्ता महाराज कुन्ती पाण्डुमभाषतकुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥१॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचनधर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥२॥
त्वमेव तु महाबाहो मय्यपत्यानि भारतवीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥३॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वयाअपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥४॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥५॥
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम्परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥६॥
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवःपुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥७॥
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनिउपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥८॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयःव्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥९॥
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचतसर्वभूतान्यति यथा तपनः शिशिरात्यये ॥१०॥
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमःप्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥११॥
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥१२॥
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाःव्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम्अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥१३॥
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम्अनन्तरत्नान्यादाय आजहार महाक्रतून्सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥१४॥
आसीत्काक्षीवती चास्य भार्या परमसंमताभद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥१५॥
कामयामासतुस्तौ तु परस्परमिति श्रुतिःस तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥१६॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान्तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥१७॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥१८॥
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृतापतिं विना जीवति या न सा जीवति दुःखिता ॥१९॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगवत्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥२०॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहेप्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥२१॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु चत्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥२२॥
छायेवानपगा राजन्सततं वशवर्तिनीभविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥२३॥
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाःआधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥२४॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणःसंयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥२५॥
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् ॥२६॥
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनीभविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥२७॥
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम्दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥२८॥
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनःतं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥२९॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तवजनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥३०॥
आत्मीये च वरारोहे शयनीये चतुर्दशीम्अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥३१॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रतायथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥३२॥
सा तेन सुषुवे देवी शवेन मनुजाधिपत्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥३३॥
तथा त्वमपि मय्येव मनसा भरतर्षभशक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥३४॥
End of chapter ॥
1

0
Adhyaya 112Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0