Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 115
Mahabharata · Adi Parva
वैशंपायन उवाच
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु चमद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१॥
न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतपनावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥२॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथाश्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥३॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रतादिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः ॥४॥
यदि त्वपत्यसंतानं कुन्तिराजसुता मयिकुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥५॥
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रतियदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥६॥
पाण्डुरुवाचममाप्येष सदा माद्रि हृद्यर्थः परिवर्ततेन तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥७॥
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम्मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥८॥
वैशंपायन उवाच
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्कुलस्य मम संतानं लोकस्य च कुरु प्रियम् ॥९॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनःमत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१०॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥११॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१२॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाःचक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१३॥
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दितेअपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१४॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम्तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१५॥
ततो माद्री विचार्यैव जगाम मनसाश्विनौतावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१६॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवितथैव तावपि यमौ वागुवाचाशरीरिणी ॥१७॥
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानतिभासतस्तेजसात्यर्थं रूपद्रविणसंपदा ॥१८॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनःभक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१९॥
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम्अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥२०॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम्माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाःअनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥२१॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥२२॥
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिताबिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥२३॥
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥२४॥
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाःसंभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥२५॥
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाःसिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनःसिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥२६॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौविस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥२७॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाःसर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥२८॥
End of chapter ॥
1

0
Adhyaya 115Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0