Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 13
Mahabharata · Adi Parva
शौनक उवाच
किमर्थं राजशार्दूलः स राजा जनमेजयःसर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥१॥
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरःमोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥२॥
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥३॥
सूत उवाच
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विजसर्वमेतदशेषेण शृणु मे वदतां वर ॥४॥
शौनक उवाच
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥५॥
सूत उवाच
इतिहासमिमं वृद्धाः पुराणं परिचक्षतेकृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥६॥
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणःशिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥७॥
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥८॥
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुःब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥९॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिःयायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥१०॥
अटमानः कदाचित्स स्वान्ददर्श पितामहान्लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥११॥
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥१२॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षितेमूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥१३॥
पितर ऊचुःयायावरा नाम वयमृषयः संशितव्रताःसंतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥१४॥
अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतःमन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥१५॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षतितेन लम्बामहे गर्ते संतानप्रक्षयादिह ॥१६॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथाकस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥१७॥
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितःकिमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥१८॥
जरत्कारुरुवाचमम पूर्वे भवन्तो वै पितरः सपितामहाःब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥१९॥
पितर ऊचुःयतस्व यत्नवांस्तात संतानाय कुलस्य नःआत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥२०॥
न हि धर्मफलैस्तात न तपोभिः सुसंचितैःतां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥२१॥
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरुपुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥२२॥
जरत्कारुरुवाचन दारान्वै करिष्यामि सदा मे भावितं मनःभवतां तु हितार्थाय करिष्ये दारसंग्रहम् ॥२३॥
समयेन च कर्ताहमनेन विधिपूर्वकम्तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥२४॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिःभैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥२५॥
दरिद्राय हि मे भार्यां को दास्यति विशेषतःप्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥२६॥
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाःअनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥२७॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वैशाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥२८॥
सूत उवाच
ततो निवेशाय तदा स विप्रः संशितव्रतःमहीं चचार दारार्थी न च दारानविन्दत ॥२९॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥३०॥
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदान स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥३१॥
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हिमनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥३२॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाःकिंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम ॥३३॥
वासुकिरुवाचजरत्कारो जरत्कारुः स्वसेयमनुजा ममत्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥३४॥
सूत उवाच
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वरजनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥३५॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमःस्वसारमृषये तस्मै सुव्रताय तपस्विने ॥३६॥
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणाआस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥३७॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगःसमः सर्वस्य लोकस्य पितृमातृभयापहः ॥३८॥
अथ कालस्य महतः पाण्डवेयो नराधिपःआजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥३९॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वैमोचयामास तं शापमास्तीकः सुमहायशाः ॥४०॥
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान्पितॄंश्च तारयामास संतत्या तपसा तथाव्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥४१॥
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैःऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान् ॥४२॥
अपहृत्य गुरुं भारं पितॄणां संशितव्रतःजरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥४३॥
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिःजरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥४४॥
एतदाख्यानमास्तीकं यथावत्कीर्तितं मयाप्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥४५॥
End of chapter ॥
1

0
Adhyaya 13Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0