Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 145
Mahabharata · Adi Parva
जनमेजय उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाःअतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
वैशंपायन उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाःऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
रमणीयानि पश्यन्तो वनानि विविधानि चपार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पतेबभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशितया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाःअर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
तथा तु तेषां वसतां तत्र राजन्महात्मनाम्अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाःसंगत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशनेभृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च साकारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततःउवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशनेअज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यतियावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
भीम उवाच
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६॥
वैशंपायन उवाच
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम्आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनःविवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन चदुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
ब्राह्मण उवाच
धिगिदं जीवितं लोकेऽनलसारमनर्थकम्दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
जीविते परमं दुःखं जीविते परमो ज्वरःजीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
एकात्मापि हि धर्मार्थौ कामं च न निषेवतेएतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचनअर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
न हि योगं प्रपश्यामि येन मुच्येयमापदःपुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणियतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
इह जाता विवृद्धास्मि पिता चेह ममेति चउक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तवबान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो ममबन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥२९॥
अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचनपरित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
सहधर्मचरीं दान्तां नित्यं मातृसमां ममसखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम्वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
कुलीनां शीलसंपन्नामपत्यजननीं ममत्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मनायस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सहस्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराःकन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतःत्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैःआत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवःसर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥
End of chapter ॥
1

0
Adhyaya 145Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0