Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 152
Mahabharata · Adi Parva
वैशंपायन उवाच
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसःनिष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१॥
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरःसान्त्वयामास बलवान्समये च न्यवेशयत् ॥२॥
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित्हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥३॥
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारतएवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥४॥
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारतनगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥५॥
ततो भीमस्तमादाय गतासुं पुरुषादकम्द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥६॥
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥७॥
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तुददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥८॥
तमद्रिकूटसदृशं विनिकीर्णं भयावहम्एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥९॥
ततः सहस्रशो राजन्नरा नगरवासिनःतत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१०॥
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥११॥
ततः प्रगणयामासुः कस्य वारोऽद्य भोजनेज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१२॥
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान्उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१३॥
आज्ञापितं मामशने रुदन्तं सह बन्धुभिःददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१४॥
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य चअब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१५॥
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मनेमन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१६॥
स तदन्नमुपादाय गतो बकवनं प्रतितेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१७॥
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताःवैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१८॥
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रतितदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१९॥
End of chapter ॥
1

0
Adhyaya 152Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0