Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 154
Mahabharata · Adi Parva
ब्राह्मण उवाच
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाःभरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥२॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदाअपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥३॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणःहृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
ततः समभवद्द्रोणः कुमारस्तस्य धीमतःअध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवःतस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥६॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतःचिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥७॥
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥८॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥९॥
राम उवाच
शरीरमात्रमेवाद्य मयेदमवशेषितम्अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१०॥
द्रोण उवाच
अस्त्राणि चैव सर्वाणि तेषां संहारमेव चप्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥११॥
ब्राह्मण उवाच
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनःप्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१२॥
संप्रहृष्टमनाश्चापि रामात्परमसंमतम्ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१३॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१४॥
द्रुपद उवाच
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखानाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१५॥
ब्राह्मण उवाच
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१६॥
तस्मै पौत्रान्समादाय वसूनि विविधानि चप्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१७॥
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत्समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१८॥
आचार्यवेतनं किंचिद्धृदि संपरिवर्ततेकृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१९॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाःततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥२०॥
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरःतस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥२१॥
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधिद्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥२२॥
द्रोण उवाच
प्रार्थयामि त्वया सख्यं पुनरेव नराधिपअराजा किल नो राज्ञः सखा भवितुमर्हति ॥२३॥
अतः प्रयतितं राज्ये यज्ञसेन मया तवराजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥२४॥
ब्राह्मण उवाच
असत्कारः स सुमहान्मुहूर्तमपि तस्य तुन व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥२५॥
End of chapter ॥
1

0
Adhyaya 154Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0