Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 16
Mahabharata · Adi Parva
सूत उवाच
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्मन्दरं पर्वतवरं लताजालसमावृतम् ॥१॥
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥२॥
एकादश सहस्राणि योजनानां समुच्छ्रितम्अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥३॥
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदाविष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥४॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥५॥
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गवततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितःनारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥६॥
अथ पर्वतराजानं तमनन्तो महाबलःउज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥७॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरेतमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥८॥
अपांपतिरथोवाच ममाप्यंशो भवेत्ततःसोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥९॥
ऊचुश्च कूर्मराजानमकूपारं सुरासुराःगिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥१०॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥११॥
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥१२॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराःविबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥१३॥
अनन्तो भगवान्देवो यतो नारायणस्ततःशिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥१४॥
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैःसधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥१५॥
ते धूमसंघाः संभूता मेघसंघाः सविद्युतःअभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥१६॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयःसुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥१७॥
बभूवात्र महाघोषो महामेघरवोपमःउदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥१८॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणाविलयं समुपाजग्मुः शतशो लवणाम्भसि ॥१९॥
वारुणानि च भूतानि विविधानि महीधरःपातालतलवासीनि विलयं समुपानयत् ॥२०॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥२१॥
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुःविद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥२२॥
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥२३॥
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततःवारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥२४॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसिमहाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥२५॥
तेषाममृतवीर्याणां रसानां पयसैव चअमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥२६॥
अथ तस्य समुद्रस्य तज्जातमुदकं पयःरसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥२७॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥२८॥
ऋते नारायणं देवं दैत्या नागोत्तमास्तथाचिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥२९॥
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥३०॥
विष्णुरुवाचबलं ददामि सर्वेषां कर्मैतद्ये समास्थिताःक्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥३१॥
सूत उवाच
नारायणवचः श्रुत्वा बलिनस्ते महोदधेःतत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥३२॥
ततः शतसहस्रांशुः समान इव सागरात्प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥३३॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनीसुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥३४॥
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवःमरीचिविकचः श्रीमान्नारायणउरोगतः ॥३५॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवःयतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥३६॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठतश्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥३७॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितःअमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥३८॥
ततो नारायणो मायामास्थितो मोहिनीं प्रभुःस्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥३९॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसःस्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥४०॥
End of chapter ॥
1

0
Adhyaya 16Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0