Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 161
Mahabharata · Adi Parva
गन्धर्व उवाच
अथ तस्यामदृश्यायां नृपतिः काममोहितःपातनः शत्रुसंघानां पपात धरणीतले ॥१॥
तस्मिन्निपतिते भूमावथ सा चारुहासिनीपुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥२॥
अथाबभाषे कल्याणी वाचा मधुरया नृपम्तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥३॥
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदममोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥४॥
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदाददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥५॥
अथ तामसितापाङ्गीमाबभाषे नराधिपःमन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥६॥
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनिभजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥७॥
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैःकामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥८॥
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिनासा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥९॥
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणिचारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥१०॥
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मनातस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥११॥
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसित्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥१२॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरिविवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१३॥
तपत्युवाचनाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥१४॥
यथा हि ते मया प्राणाः संगृहीता नरेश्वरदर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥१५॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तमसमीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥१६॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥१७॥
तस्मादेवंगते काले याचस्व पितरं ममआदित्यं प्रणिपातेन तपसा नियमेन च ॥१८॥
स चेत्कामयते दातुं तव मामरिमर्दनभविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥१९॥
अहं हि तपती नाम सावित्र्यवरजा सुताअस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥२०॥
End of chapter ॥
1

0
Adhyaya 161Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0