महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आदि पर्व
॥ श्रीः ॥
अध्याय 162
महाभारत · आदि पर्व
गन्धर्व उवाच
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दितास तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥१॥
अमात्यः सानुयात्रस्तु तं ददर्श महावनेक्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥२॥
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौबभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना ॥३॥
त्वरया चोपसंगम्य स्नेहादागतसंभ्रमःतं समुत्थापयामास नृपतिं काममोहितम् ॥४॥
भूतलाद्भूमिपालेशं पितेव पतितं सुतम्प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥५॥
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरःउवाच चैनं कल्याण्या वाचा मधुरयोत्थितम्मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥६॥
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम्पतितं पातनं संख्ये शात्रवाणां महीतले ॥७॥
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत्अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥८॥
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपःसर्वं विसर्जयामास तमेकं सचिवं विना ॥९॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥१०॥
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिःआरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥११॥
जगाम मनसा चैव वसिष्ठमृषिसत्तमम्पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥१२॥
नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपेअथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥१३॥
स विदित्वैव नृपतिं तपत्या हृतमानसम्दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥१४॥
तथा तु नियतात्मानं स तं नृपतिसत्तमम्आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥१५॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिःऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥१६॥
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितःवसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥१७॥
तमुवाच महातेजा विवस्वान्मुनिसत्तमम्महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥१८॥
अध्याय समाप्त ॥
१

0
अध्याय 162पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0