Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 192
Mahabharata · Adi Parva
वैशंपायन उवाच
ततो राज्ञां चरैराप्तैश्चारः समुपनीयतपाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥१॥
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मनासोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥२॥
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बलीत्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे ॥३॥
न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनःस भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥४॥
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदाकौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥५॥
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुतापुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥६॥
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥७॥
वृत्ते स्वयंवरे चैव राजानः सर्व एव तेयथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥८॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सहअश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥९॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥१०॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सःन हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥११॥
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम्धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥१२॥
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥१३॥
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसःमुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥१४॥
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम्द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥१५॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥१६॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पतेउवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥१७॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥१८॥
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्ययादुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥१९॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहुआनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥२०॥
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन चतेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥२१॥
धृतराष्ट्र उवाच
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका ममसेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मतायत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥२२॥
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥२३॥
वैशंपायन उवाच
तं तथा भाषमाणं तु विदुरः प्रत्यभाषतनित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥२४॥
ततो दुर्योधनश्चैव राधेयश्च विशां पतेधृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥२५॥
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवःविविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥२६॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनःअभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥२७॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघतेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥२८॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहेयथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥२९॥
End of chapter ॥
1

0
Adhyaya 192Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0