Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 205
Mahabharata · Adi Parva
वैशंपायन उवाच
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाःवशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥१॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥२॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिःबभूव परमप्रीता नागैरिव सरस्वती ॥३॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसुव्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥४॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पतेकस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥५॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितःआगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥६॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिःप्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥७॥
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यतेशार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥८॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपितेरोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥९॥
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवःतानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः ॥१०॥
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम्आयुधानि च यत्रासन्पाण्डवानां महात्मनाम्कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥११॥
स प्रवेशाय चाशक्तो गमनाय च पाण्डवःतस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनःआक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥१२॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनःअश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥१३॥
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेःयद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥१४॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणेप्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥१५॥
अनापृच्छ्य च राजानं गते मयि न संशयःअजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥१६॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्ममअधर्मो वा महानस्तु वने वा मरणं ममशरीरस्यापि नाशेन धर्म एव विशिष्यते ॥१७॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयःअनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥१८॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषतब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥१९॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सहयावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥२०॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजीशरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥२१॥
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवःआजगाम पुरं वीरः सव्यसाची परंतपः ॥२२॥
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितःधर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥२३॥
समयः समतिक्रान्तो भवत्संदर्शनान्मयावनवासं गमिष्यामि समयो ह्येष नः कृतः ॥२४॥
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानयायुधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥२५॥
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघअनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥२६॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसःयवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥२७॥
निवर्तस्व महाबाहो कुरुष्व वचनं ममन हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥२८॥
अर्जुन उवाच
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥२९॥
वैशंपायन उवाच
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितःवने द्वादश वर्षाणि वासायोपजगाम ह ॥३०॥
End of chapter ॥
1

0
Adhyaya 205Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0