महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आदि पर्व
॥ श्रीः ॥
अध्याय 210
महाभारत · आदि पर्व
वैशंपायन उवाच
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि चसर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥१॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि चतानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥२॥
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥३॥
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवःददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥४॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वनेआस्तां प्रियसखायौ तौ नरनारायणावृषी ॥५॥
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छतकिमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥६॥
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदाश्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥७॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौमहीधरं रैवतकं वासायैवाभिजग्मतुः ॥८॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम् ॥९॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवःसहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥१०॥
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवःसत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥११॥
तीर्थानां दर्शनं चैव पर्वतानां च भारतआपगानां वनानां च कथयामास सात्वते ॥१२॥
स कथाः कथयन्नेव निद्रया जनमेजयकौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥१३॥
मधुरेण स गीतेन वीणाशब्देन चानघप्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥१४॥
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितःरथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥१५॥
अलंकृता द्वारका तु बभूव जनमेजयकुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥१६॥
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाःनरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥१७॥
अवलोकेषु नारीणां सहस्राणि शतानि चभोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥१८॥
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैःअभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥१९॥
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितःसमानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥२०॥
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृतेउवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥२१॥
अध्याय समाप्त ॥
१

0
अध्याय 210पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0