Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 217
Mahabharata · Adi Parva
वैशंपायन उवाच
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौदिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥१॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाःपलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥२॥
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात्आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥३॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशःउत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥४॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरेस्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥५॥
समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरेत्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥६॥
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशःतत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥७॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतलेतत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥८॥
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारतगतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥९॥
शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयःअदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये ॥१०॥
तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशःदीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥११॥
ते शराचितसर्वाङ्गा विनदन्तो महारवान्ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥१२॥
शरैरभ्याहतानां च दह्यतां च वनौकसाम्विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥१३॥
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषःजनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥१४॥
ततो जग्मुर्महात्मानः सर्व एव दिवौकसःशरणं देवराजानं सहस्राक्षं पुरंदरम् ॥१५॥
देवा ऊचुःकिं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मनाकच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥१६॥
वैशंपायन उवाच
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य चखाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥१७॥
महता मेघजालेन नानारूपेण वज्रभृत्आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१८॥
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशःअभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥१९॥
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसःख एव समशुष्यन्त न काश्चित्पावकं गताः ॥२०॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदापुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥२१॥
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥२२॥
End of chapter ॥
1

0
Adhyaya 217Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0