Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 32
Mahabharata · Adi Parva
शौनक उवाच
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाःशापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१॥
सूत उवाच
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाःतपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥२॥
गन्धमादनमासाद्य बदर्यां च तपोरतःगोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥३॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु चएकान्तशीली नियतः सततं विजितेन्द्रियः ॥४॥
तप्यमानं तपो घोरं तं ददर्श पितामहःपरिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥५॥
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहःकिमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥६॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥७॥
शेष उवाच
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसःसह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥८॥
अभ्यसूयन्ति सततं परस्परममित्रवत्ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥९॥
न मर्षयन्ति सततं विनतां ससुतां च तेअस्माकं चापरो भ्राता वैनतेयः पितामह ॥१०॥
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलःवरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥११॥
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः ॥१२॥
ब्रह्मोवाचजानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ॥१३॥
कृतोऽत्र परिहारश्च पूर्वमेव भुजंगमभ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१४॥
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१५॥
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तमअतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१६॥
शेष उवाच
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामहधर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१७॥
ब्रह्मोवाचप्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन चत्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१८॥
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां चत्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात् ॥१९॥
शेष उवाच
यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिःतथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥२०॥
ब्रह्मोवाचअधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यतिइमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥२१॥
सूत उवाच
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितःबिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥२२॥
ब्रह्मोवाचशेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकःअनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥२३॥
सूत उवाच
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥२४॥
सुपर्णं च सखायं वै भगवानमरोत्तमःप्रादादनन्ताय तदा वैनतेयं पितामहः ॥२५॥
End of chapter ॥
1

0
Adhyaya 32Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0