Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 36
Mahabharata · Adi Parva
शौनक उवाच
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दनइच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुविजरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
सूत उवाच
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
क्षपयामास तीव्रेण तपसेत्यत उच्यतेजरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदाउग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
सूत उवाच
अथ कालस्य महतः स मुनिः संशितव्रतःतपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तुपरिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुविबभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथाअन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणापृष्ठतो धनुरादाय ससार गहने वने ॥११॥
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिविअन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रतिपरिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥
दूरं चापहृतस्तेन मृगेण स महीपतिःपरिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजःमया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितःतस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षतन च किंचिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाःशृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
स देवं परमीशानं सर्वभूतहिते रतम्ब्रह्माणमुपतस्थे वै काले काले सुसंयतःस तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥
सख्योक्तः क्रीडमानेन स तत्र हसता किलसंरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतःऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥
तेजस्विनस्तव पिता तथैव च तपस्विनःशवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीःअस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाःदर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥
End of chapter ॥
1

0
Adhyaya 36Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0