Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 37
Mahabharata · Adi Parva
सूत उवाच
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितःमृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥१॥
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन्अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥२॥
कृश उवाच
राज्ञा परिक्षिता तात मृगयां परिधावताअवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः ॥३॥
शृङ्ग्युवाचकिं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनःब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥४॥
कृश उवाच
स राजा मृगयां यातः परिक्षिदभिमन्युजःससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥५॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावनेपितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥६॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरःपुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥७॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषततस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥८॥
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतःसोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥९॥
सूत उवाच
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितःकोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥१०॥
आविष्टः स तु कोपेन शशाप नृपतिं तदावार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥११॥
शृङ्ग्युवाचयोऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य चस्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥१२॥
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमःआशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥१३॥
सप्तरात्रादितो नेता यमस्य सदनं प्रतिद्विजानामवमन्तारं कुरूणामयशस्करम् ॥१४॥
सूत उवाच
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात्आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥१५॥
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वैशवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥१६॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥१७॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम्यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥१८॥
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमःवैवस्वतस्य भवनं नेता परमदारुणम् ॥१९॥
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥२०॥
वयं तस्य नरेन्द्रस्य विषये निवसामहेन्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥२१॥
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदाक्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥२२॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत्न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥२३॥
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिःचरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥२४॥
परिक्षित्तु विशेषेण यथास्य प्रपितामहःरक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥२५॥
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विनाअजानता व्रतमिदं कृतमेतदसंशयम् ॥२६॥
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥२७॥
End of chapter ॥
1

0
Adhyaya 37Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0