Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 38
Mahabharata · Adi Parva
शृङ्ग्युवाचयद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥१॥
नैवान्यथेदं भविता पितरेष ब्रवीमि तेनाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥२॥
शमीक उवाच
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथानानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥३॥
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तुयथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥४॥
किं पुनर्बाल एव त्वं तपसा भावितः प्रभोवर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥५॥
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वरपुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥६॥
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन्चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥७॥
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥८॥
शम एव यतीनां हि क्षमिणां सिद्धिकारकःक्षमावतामयं लोकः परश्चैव क्षमावताम् ॥९॥
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियःक्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥१०॥
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वैतत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥११॥
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिनाममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥१२॥
सूत उवाच
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतःपरिक्षिते नृपतये दयापन्नो महातपाः ॥१३॥
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव चशिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥१४॥
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥१५॥
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततःआचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतःशमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥१६॥
शमीको नाम राजेन्द्र विषये वर्तते तवऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥१७॥
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितःअवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तमक्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥१८॥
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वैतक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥१९॥
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥२०॥
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥२१॥
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनःपर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥२२॥
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदाभूय एवाभवद्राजा शोकसंतप्तमानसः ॥२३॥
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तुपर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥२४॥
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यतअशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥२५॥
ततस्तं प्रेषयामास राजा गौरमुखं तदाभूयः प्रसादं भगवान्करोत्विति ममेति वै ॥२६॥
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदामन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥२७॥
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित्प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥२८॥
रक्षां च विदधे तत्र भिषजश्चौषधानि चब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥२९॥
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सःमन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥३०॥
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तमकाश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥३१॥
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम्तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥३२॥
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥३३॥
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथिगच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥३४॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥३५॥
काश्यप उवाच
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥३६॥
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसापाण्डवानां कुलकरं राजानममितौजसम्गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥३७॥
तक्षक उवाच
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥३८॥
काश्यप उवाच
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम्करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥३९॥
End of chapter ॥
1

0
Adhyaya 38Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0