Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 39
Mahabharata · Adi Parva
तक्षक उवाच
दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम्ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥१॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व चन्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥२॥
काश्यप उवाच
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसेअहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ॥३॥
सूत उवाच
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मनाअदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥४॥
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युतेआशीविषविषोपेतः प्रजज्वाल समन्ततः ॥५॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥६॥
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसाभस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥७॥
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौअहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥८॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमःभस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥९॥
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥१०॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मनाउवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥११॥
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वाकं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥१२॥
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥१३॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपेघटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१४॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥१५॥
काश्यप उवाच
धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगमततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥१६॥
तक्षक उवाच
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१७॥
सूत उवाच
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमःप्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥१८॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदाक्षीणायुषं पाण्डवेयमपावर्तत काश्यपःलब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥१९॥
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनिजगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥२०॥
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥२१॥
स चिन्तयामास तदा मायायोगेन पार्थिवःमया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥२२॥
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥२३॥
तक्षक उवाच
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तयाफलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥२४॥
सूत उवाच
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाःउपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥२५॥
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥२६॥
गतेषु तेषु नागेषु तापसच्छद्मरूपिषुअमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥२७॥
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशःतापसैरुपनीतानि फलानि सहिता मया ॥२८॥
ततो राजा ससचिवः फलान्यादातुमैच्छतयद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुःह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥२९॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्अस्तमभ्येति सविता विषादद्य न मे भयम् ॥३०॥
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम्तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥३१॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताःएवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य हकृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥३२॥
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितःतस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥३३॥
End of chapter ॥
1

0
Adhyaya 39Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0