Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 46
Mahabharata · Adi Parva
मन्त्रिण ऊचुःततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१॥
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाःशृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥२॥
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार हअनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदासख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥३॥
मृतं सर्पं समासक्तं पित्रा ते जनमेजयवहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥४॥
तपस्विनमतीवाथ तं मुनिप्रवरं नृपजितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥५॥
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथाशुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥६॥
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥७॥
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितःऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥८॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच हपितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव ॥९॥
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यतिसप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१०॥
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥११॥
स चापि मुनिशार्दूलः प्रेषयामास ते पितुःशप्तोऽसि मम पुत्रेण यत्तो भव महीपतेतक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१२॥
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजययत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१३॥
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थितेराज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१४॥
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदातमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन्क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१५॥
काश्यप उवाच
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विजतक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥१६॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१७॥
तक्षक उवाच
किमर्थं तं मया दष्टं संजीवयितुमिच्छसिब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१८॥
मन्त्रिण ऊचुःधनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सःतमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१९॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥२०॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरःलब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥२१॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकःतं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥२२॥
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निनाततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥२३॥
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तमअस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥२४॥
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥२५॥
जनमेजय उवाच
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वनेसंवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥२६॥
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम्श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥२७॥
मन्त्रिण ऊचुःशृणु राजन्यथास्माकं येनैतत्कथितं पुरासमागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥२८॥
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिवविचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम्अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥२९॥
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदाद्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥३०॥
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम्यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥३१॥
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम्श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥३२॥
सूत उवाच
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयःपर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥३३॥
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनःमुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपःउवाच च महीपालो दुःखशोकसमन्वितः ॥३४॥
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रतिनिश्चितेयं मम मतिर्या वै तां मे निबोधत ॥३५॥
अनन्तरमहं मन्ये तक्षकाय दुरात्मनेप्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥३६॥
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम्यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥३७॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवःकाश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥३८॥
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥३९॥
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनःद्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥४०॥
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम्भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥४१॥
End of chapter ॥
1

0
Adhyaya 46Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0