Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 47
Mahabharata · Adi Parva
सूत उवाच
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितःआरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवःब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥१॥
पुरोहितमथाहूय ऋत्विजं वसुधाधिपःअब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः ॥२॥
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥३॥
अपि तत्कर्म विदितं भवतां येन पन्नगम्तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥४॥
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निनातथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥५॥
ऋत्विज ऊचुःअस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥६॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिपइति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥७॥
सूत उवाच
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम्हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥८॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदाआहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥९॥
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तमदेशं तं मापयामासुर्यज्ञायतनकारणात्यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥१०॥
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम्प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥११॥
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥१२॥
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यतिनिमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥१३॥
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ॥१४॥
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदायस्मिन्देशे च काले च मापनेयं प्रवर्तिताब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥१५॥
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत्क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥१६॥
ततः कर्म प्रववृते सर्पसत्रे विधानतःपर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥१७॥
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाःजुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥१८॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि तेसर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥१९॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहनेविवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥२०॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परेपुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥२१॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथारुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥२२॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि चअवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥२३॥
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरेमत्ता इव च मातङ्गा महाकाया महाबलाः ॥२४॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाःघोराश्च परिघप्रख्या दन्दशूका महाबलाःप्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥२५॥
End of chapter ॥
1

0
Adhyaya 47Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0