Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 48
Mahabharata · Adi Parva
शौनक उवाच
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतःजनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥१॥
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणेविषादजननेऽत्यर्थं पन्नगानां महाभये ॥२॥
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हतिसर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥३॥
सूत उवाच
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥४॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवःच्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥५॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिःब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥६॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥७॥
असितो देवलश्चैव नारदः पर्वतस्तथाआत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥८॥
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान्कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥९॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताःसदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥१०॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौअहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥११॥
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताःववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥१२॥
पततां चैव नागानां धिष्ठितानां तथाम्बरेअश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥१३॥
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥१४॥
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमःअगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥१५॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षकभयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन ॥१६॥
प्रसादितो मया पूर्वं तवार्थाय पितामहःतस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥१७॥
एवमाश्वासितस्तेन ततः स भुजगोत्तमःउवास भवने तत्र शक्रस्य मुदितः सुखी ॥१८॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितःअल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥१९॥
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम्स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥२०॥
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति चसीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥२१॥
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव चपतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥२२॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसयाव्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥२३॥
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसःजरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥२४॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमेप्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥२५॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥२६॥
End of chapter ॥
1

0
Adhyaya 48Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0