Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 49
Mahabharata · Adi Parva
सूत उवाच
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमावासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥१॥
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततःकालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् ॥२॥
आस्तीक उवाच
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मेतन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥३॥
सूत उवाच
तत आचष्ट सा तस्मै बान्धवानां हितैषिणीभगिनी नागराजस्य जरत्कारुरविक्लवा ॥४॥
भुजगानामशेषाणां माता कद्रूरिति श्रुतिःतया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥५॥
उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो ममविनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥६॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिःतत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥७॥
तां च शप्तवतीमेवं साक्षाल्लोकपितामहःएवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥८॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदाअमृते मथिते तात देवाञ्शरणमीयिवान् ॥९॥
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥१०॥
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम्राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥११॥
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्अभिशापः स मात्रास्य भगवन्न भवेदिति ॥१२॥
ब्रह्मोवाचजरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यतितत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥१३॥
जरत्कारुरुवाचएतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरःप्रादान्माममरप्रख्य तव पित्रे महात्मनेप्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥१४॥
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसिभ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥१५॥
अमोघं नः कृतं तत्स्याद्यदहं तव धीमतेपित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥१६॥
सूत उवाच
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदाअब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव ॥१७॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तमतस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥१८॥
भव स्वस्थमना नाग न हि ते विद्यते भयम्प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यतिन मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१९॥
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुलयथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥२०॥
स संभावय नागेन्द्र मयि सर्वं महामतेन ते मयि मनो जातु मिथ्या भवितुमर्हति ॥२१॥
वासुकिरुवाचआस्तीक परिघूर्णामि हृदयं मे विदीर्यतेदिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥२२॥
आस्तीक उवाच
न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तमदीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥२३॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन ॥२४॥
सूत उवाच
ततः स वासुकेर्घोरमपनीय मनोज्वरम्आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥२५॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैःमोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥२६॥
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥२७॥
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमःअभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥२८॥
End of chapter ॥
1

0
Adhyaya 49Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0