Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 5
Mahabharata · Adi Parva
शौनक उवाच
पुराणमखिलं तात पिता तेऽधीतवान्पुराकच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥
सूत उवाच
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिःवैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥४॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मयातत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैःपूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥५॥
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुनेनिगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥६॥
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवःच्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकःप्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥७॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगःप्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥८॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमःधर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥९॥
शौनक उवाच
सूतपुत्र यथा तस्य भार्गवस्य महात्मनःच्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१०॥
सूत उवाच
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुतातस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥११॥
तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वहसमये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१२॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरेआश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१३॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१४॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शनान्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१५॥
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम्दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१६॥
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम्तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१७॥
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वैसत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१८॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनीपश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१९॥
सेयं यदि वरारोहा भृगोर्भार्या रहोगतातथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥२०॥
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठतिमत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥२१॥
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम्शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥२२॥
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदासाक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२३॥
मत्पूर्वभार्यापहृता भृगुणानृतकारिणासेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२४॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात्जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२५॥
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम्भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥२६॥
End of chapter ॥
1

0
Adhyaya 5Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0