Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 53
Mahabharata · Adi Parva
सूत उवाच
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमःतथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१॥
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठतततश्चिन्तापरो राजा बभूव जनमेजयः ॥२॥
हूयमाने भृशं दीप्ते विधिवत्पावके तदान स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥३॥
शौनक उवाच
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥४॥
सूत उवाच
तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम्आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥५॥
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयतायथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥६॥
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥७॥
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाःप्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥८॥
ततो हलहलाशब्दः प्रीतिजः समवर्ततआस्तीकस्य वरे दत्ते तथैवोपरराम च ॥९॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य हप्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥१०॥
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताःतेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥११॥
लोहिताक्षाय सूताय तथा स्थपतये विभुःयेनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥१२॥
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहुततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥१३॥
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१४॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥१५॥
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतःकृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥१६॥
स गत्वा परमप्रीतो मातरं मातुलं च तम्अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् ॥१७॥
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाःतेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व ॥१८॥
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१९॥
आस्तीक उवाच
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपिधर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात् ॥२०॥
सूत उवाच
तैश्चाप्युक्तो भागिनेयः प्रसन्नै;रेतत्सत्यं काममेवं चरन्तःप्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥२१॥
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाःआस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु ॥२२॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥२३॥
सूत उवाच
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमःजगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥२४॥
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तवयत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥२५॥
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥२६॥
शौनक उवाच
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥२७॥
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दनयां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे ॥२८॥
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥२९॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥३०॥
सूत उवाच
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाःव्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥३१॥
शौनक उवाच
महाभारतमाख्यानं पाण्डवानां यशस्करम्जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥३२॥
श्रावयामास विधिवत्तदा कर्मान्तरेषु सःतामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥३३॥
मनःसागरसंभूतां महर्षेः पुण्यकर्मणःकथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥३४॥
सूत उवाच
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्कृष्णद्वैपायनमतं महाभारतमादितः ॥३५॥
तज्जुषस्वोत्तममते कथ्यमानं मया द्विजशंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥३६॥
End of chapter ॥
1

0
Adhyaya 53Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0