Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 55
Mahabharata · Adi Parva
वैशंपायन उवाच
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिःसंपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥१॥
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतःप्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥४॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम्तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ ॥५॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥६॥
तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान्नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥७॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलःतेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥८॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजःजरयामास तद्वीरः सहान्नेन वृकोदरः ॥९॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥१०॥
यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥११॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥१२॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिःमोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥१३॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहःपाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥१४॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपिनाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥१५॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिःधृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥१६॥
तत्र तान्वासयामास पाण्डवानमितौजसःअदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥१७॥
विदुरस्यैव वचनात्खनित्री विहिता ततःमोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥१८॥
ततो महावने घोरे हिडिम्बं नाम राक्षसम्भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥१९॥
अथ संधाय ते वीरा एकचक्रां व्रजंस्तदाब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः ॥२०॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥२१॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताःविदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥२२॥
त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन चभ्रातृभिर्विग्रहस्तात कथं वो न भवेदितिअस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥२३॥
तस्माज्जनपदोपेतं सुविभक्तमहापथम्वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥२४॥
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैःनगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥२५॥
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥२६॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाःअप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥२७॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलःउदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥२८॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहाएवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम् ॥२९॥
पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजताषट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥३०॥
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरःवनं प्रस्थापयामास भ्रातरं वै धनंजयम् ॥३१॥
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥३२॥
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥३३॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगतासुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥३४॥
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥३५॥
नातिभारो हि पार्थस्य केशवेनाभवत्सहव्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥३६॥
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥३७॥
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥३८॥
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिःततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥३९॥
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च चअज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥४०॥
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसुनालभन्त महाराज ततो युद्धमवर्तत ॥४१॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥४२॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्भेदो राज्यविनाशश्च जयश्च जयतां वर ॥४३॥
End of chapter ॥
1

0
Adhyaya 55Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0