Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 56
Mahabharata · Adi Parva
जनमेजय उवाच
कथितं वै समासेन त्वया सर्वं द्विजोत्तममहाभारतमाख्यानं कुरूणां चरितं महत् ॥१॥
कथां त्वनघ चित्रार्थामिमां कथयति त्वयिविस्तरश्रवणे जातं कौतूहलमतीव मे ॥२॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हतिन हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाःअवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसःप्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥५॥
कथं नागायुतप्राणो बाहुशाली वृकोदरःपरिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥६॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिःशक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥७॥
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथाअनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥८॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥९॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिःअस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥१०॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधनयद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥११॥
वैशंपायन उवाच
महर्षेः सर्वलोकेषु पूजितस्य महात्मनःप्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१२॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१३॥
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरःते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१४॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१५॥
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यतेइतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१६॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१७॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१८॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणामहीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१९॥
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥२०॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥२१॥
संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरेपुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥२२॥
शरीरेण कृतं पापं वाचा च मनसैव चसर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥२३॥
भारतानां महज्जन्म शृण्वतामनसूयताम्नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥२४॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव चकृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥२५॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥२६॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिःख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥२७॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसुधूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥२८॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततःअक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि ॥२९॥
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥३०॥
भारतानां महज्जन्म महाभारतमुच्यतेनिरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥३१॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिःमहाभारतमाख्यानं कृतवानिदमुत्तमम् ॥३२॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभयदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३३॥
End of chapter ॥
1

0
Adhyaya 56Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0