Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 58
Mahabharata · Adi Parva
जनमेजय उवाच
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताःसम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥१॥
यदर्थमिह संभूता देवकल्पा महारथाःभुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥२॥
वैशंपायन उवाच
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥३॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुराजामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥४॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सतिब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥५॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताःऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥६॥
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशःततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान्कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥७॥
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिःजातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम्चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥८॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथातथैवान्यानि भूतानि तिर्यग्योनिगतान्यपिऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥९॥
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनःताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाःआधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥१०॥
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम्अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥११॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम्ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥१२॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाःदण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥१३॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुःस्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥१४॥
न बाल एव म्रियते तदा कश्चिन्नराधिपन च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥१५॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभइयं सागरपर्यन्ता समापूर्यत मेदिनी ॥१६॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैःसाङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥१७॥
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृपन च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥१८॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविहन गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥१९॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाःन कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥२०॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाःधर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥२१॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिपएवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥२२॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभफलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥२३॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृपआपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥२४॥
ततः समुदिते लोके मानुषे भरतर्षभअसुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव ॥२५॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधिऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह ॥२६॥
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनःजज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥२७॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु चक्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥२८॥
जातैरिह महीपाल जायमानैश्च तैर्महीन शशाकात्मनात्मानमियं धारयितुं धरा ॥२९॥
अथ जाता महीपालाः केचिद्बलसमन्विताःदितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥३०॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥३१॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्अन्यानि चैव भूतानि पीडयामासुरोजसा ॥३२॥
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च तेविचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥३३॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततःअब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥३४॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैःपीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥३५॥
न हीमां पवनो राजन्न नागा न नगा महीम्तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥३६॥
ततो मही महीपाल भारार्ता भयपीडिताजगाम शरणं देवं सर्वभूतपितामहम् ॥३७॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिःददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥३८॥
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैःवन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥३९॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनीसंनिधौ लोकपालानां सर्वेषामेव भारत ॥४०॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवःपूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥४१॥
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारतसुरासुराणां लोकानामशेषेण मनोगतम् ॥४२॥
तामुवाच महाराज भूमिं भूमिपतिर्विभुःप्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः ॥४३॥
यदर्थमसि संप्राप्ता मत्सकाशं वसुंधरेतदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥४४॥
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य चआदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥४५॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥४६॥
तथैव च समानीय गन्धर्वाप्सरसां गणान्उवाच भगवान्सर्वानिदं वचनमुत्तमम्स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति ॥४७॥
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचःतथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥४८॥
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाःनारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥४९॥
यः स चक्रगदापाणिः पीतवासासितप्रभःपद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥५०॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥५१॥
End of chapter ॥
1

0
Adhyaya 58Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0