Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 59
Mahabharata · Adi Parva
वैशंपायन उवाच
अथ नारायणेनेन्द्रश्चकार सह संविदम्अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥१॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसःनिर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥२॥
तेऽमरारिविनाशाय सर्वलोकहिताय चअवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥३॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु चजज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥४॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथापुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥५॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथान तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥६॥
जनमेजय उवाच
देवदानवसंघानां गन्धर्वाप्सरसां तथामानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥७॥
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितःप्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥८॥
वैशंपायन उवाच
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवेसुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥९॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयःमरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१०॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाःप्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥११॥
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिःक्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१२॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारतएतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् ॥१३॥
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराःये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥१४॥
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव चभगो विवस्वान्पूषा च सविता दशमस्तथा ॥१५॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यतेजघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥१६॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतःनाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥१७॥
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥१८॥
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारतविरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥१९॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥२०॥
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारततेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥२१॥
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतःअसिलोमा च केशी च दुर्जयश्चैव दानवः ॥२२॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥२३॥
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथाअश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥२४॥
इसृपा एकचक्रश्च विरूपाक्षो हराहरौनिचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥२५॥
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथाइति ख्याता दनोर्वंशे दानवाः परिकीर्तिताःअन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥२६॥
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाःदनुपुत्रा महाराज दश दानवपुङ्गवाः ॥२७॥
एकाक्षो मृतपा वीरः प्रलम्बनरकावपिवातापिः शत्रुतपनः शठश्चैव महासुरः ॥२८॥
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवःअसंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥२९॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥३०॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥३१॥
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाःविक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥३२॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणःभुवि ख्याता महावीर्या दानवेषु परंतपाः ॥३३॥
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरःक्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥३४॥
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥३५॥
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौतेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः ॥३६॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्असुराणां सुराणां च पुराणे संश्रुतो मया ॥३७॥
एतेषां यदपत्यं तु न शक्यं तदशेषतःप्रसंख्यातुं महीपाल गुणभूतमनन्तकम् ॥३८॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौआरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥३९॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमःकूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥४०॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथागोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥४१॥
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतःभीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥४२॥
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशःकलिः पञ्चदशश्चैव नारदश्चैव षोडशःइत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥४३॥
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारतअनवद्यामनुवशामनूनामरुणां प्रियाम्अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥४४॥
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाःब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥४५॥
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथाइत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥४६॥
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्प्रावासूत महाभागा देवी देवर्षितः पुरा ॥४७॥
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघाअरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥४८॥
असिता च सुबाहुश्च सुव्रता सुभुजा तथासुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहूतुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥४९॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथाअपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥५०॥
इति ते सर्वभूतानां संभवः कथितो मयायथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा ॥५१॥
भुजगानां सुपर्णानां रुद्राणां मरुतां तथागवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥५२॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहःश्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥५३॥
इमं तु वंशं नियमेन यः पठे;न्महात्मनां ब्राह्मणदेवसंनिधौअपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥५४॥
End of chapter ॥
1

0
Adhyaya 59Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0