Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 67
Mahabharata · Adi Parva
दुःषन्त उवाच
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसेभार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥१॥
सुवर्णमाला वासांसि कुण्डले परिहाटकेनानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥२॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि चसर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥३॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरिविवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥४॥
शकुन्तलोवाचफलाहारो गतो राजन्पिता मे इत आश्रमात्तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥५॥
दुःषन्त उवाच
इच्छामि त्वां वरारोहे भजमानामनिन्दितेत्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥६॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनःआत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥७॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताःब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥८॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतःतेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥९॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारयषडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥१०॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतःपञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥११॥
पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचनअनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१२॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाःपृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥१३॥
सा त्वं मम सकामस्य सकामा वरवर्णिनिगान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥१४॥
शकुन्तलोवाचयदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्ममप्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥१५॥
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहःमम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥१६॥
युवराजो महाराज सत्यमेतद्ब्रवीहि मेयद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया ॥१७॥
वैशंपायन उवाच
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मितेयथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥१८॥
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्जग्राह विधिवत्पाणावुवास च तया सह ॥१९॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनःप्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥२०॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजयमनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥२१॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यतिएवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥२२॥
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥२३॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाःउवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥२४॥
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतःपुंसा सह समायोगो न स धर्मोपघातकः ॥२५॥
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यतेसकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥२६॥
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमःअभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥२७॥
महात्मा जनिता लोके पुत्रस्तव महाबलःय इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥२८॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनःभविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥२९॥
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्विनिधाय ततो भारं संनिधाय फलानि च ॥३०॥
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमःतस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥३१॥
कण्व उवाच
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनिगृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥३२॥
वैशंपायन उवाच
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथाशकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥३३॥
End of chapter ॥
1

0
Adhyaya 67Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0