Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 70
Mahabharata · Adi Parva
वैशंपायन उवाच
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य चभरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
यादवानामिमं वंशं पौरवाणां च सर्वशःतथैव भारतानां च पुण्यं स्वस्त्ययनं महत्धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥
तेजोभिरुदिताः सर्वे महर्षिसमतेजसःदश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताःमेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाःसंभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिःआत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदःमोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् ॥६॥
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधेप्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
ददौ स दश धर्माय कश्यपाय त्रयोदशकालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरामारीचः कश्यपस्तस्यामादित्यान्समजीजनत्इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ॥९॥
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुःमार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुःमनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम्ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव चकरूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान्नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौअन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
पुरूरवास्ततो विद्वानिलायां समपद्यतसा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाःअमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाःजहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य हअनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यतलोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः ॥२०॥
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट्आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुःदृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम्स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमःराज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
स हत्वा दस्युसंघातानृषीन्करमदापयत्पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
कारयामास चेन्द्रत्वमभिभूय दिवौकसःतेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम्नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमःस पालयामास महीमीजे च विविधैः सवैः ॥२९॥
अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदाअन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैःदेवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव चद्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत्यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
यौवनेन चरन्कामान्युवा युवतिभिः सहविहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेःकामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वःअहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
राजंश्चराभिनवया तन्वा यौवनगोचरःअहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्संचारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
पौरवेणाथ वयसा राजा यौवनमास्थितःयायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
ततो वर्षसहस्रान्ते ययातिरपराजितःअतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतःपौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य चकालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥
End of chapter ॥
1

0
Adhyaya 70Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0