Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 75
Mahabharata · Adi Parva
वैशंपायन उवाच
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य हवृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिवपुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यतिफलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥२॥
यदघातयथा विप्रं कचमाङ्गिरसं तदाअपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥३॥
वधादनर्हतस्तस्य वधाच्च दुहितुर्ममवृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम्स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥४॥
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥५॥
वृषपर्वोवाचनाधर्मं न मृषावादं त्वयि जानामि भार्गवत्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥६॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गवसमुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् ॥७॥
शुक्र उवाच
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराःदुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥८॥
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम्योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥९॥
वृषपर्वोवाचयत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गवभुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥१०॥
शुक्र उवाच
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुरतस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥११॥
देवयान्युवाचयदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गवनाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥१२॥
वृषपर्वोवाचयं काममभिकामासि देवयानि शुचिस्मितेतत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् ॥१३॥
देवयान्युवाचदासीं कन्यासहस्रेण शर्मिष्ठामभिकामयेअनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥१४॥
वृषपर्वोवाचउत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानययं च कामयते कामं देवयानी करोतु तम् ॥१५॥
वैशंपायन उवाच
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥१६॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितःसा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥१७॥
शर्मिष्ठोवाचसा यं कामयते कामं करवाण्यहमद्य तम्मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥१८॥
वैशंपायन उवाच
ततः कन्यासहस्रेण वृता शिबिकया तदापितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥१९॥
शर्मिष्ठोवाचअहं कन्यासहस्रेण दासी ते परिचारिकाअनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२०॥
देवयान्युवाचस्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतःस्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥२१॥
शर्मिष्ठोवाचयेन केनचिदार्तानां ज्ञातीनां सुखमावहेत्अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥२२॥
वैशंपायन उवाच
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणःदेवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥२३॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तमअमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥२४॥
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाःप्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥२५॥
End of chapter ॥
1

0
Adhyaya 75Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0