Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 76
Mahabharata · Adi Parva
वैशंपायन उवाच
अथ दीर्घस्य कालस्य देवयानी नृपोत्तमवनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥१॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदातमेव देशं संप्राप्ता यथाकामं चचार साताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥२॥
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥३॥
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छयातमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ॥४॥
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितःपिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥५॥
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥६॥
ययातिरुवाचद्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारितेगोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥७॥
देवयान्युवाचआख्यास्याम्यहमादत्स्व वचनं मे नराधिपशुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥८॥
इयं च मे सखी दासी यत्राहं तत्र गामिनीदुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥९॥
ययातिरुवाचकथं नु ते सखी दासी कन्येयं वरवर्णिनीअसुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥१०॥
देवयान्युवाचसर्व एव नरव्याघ्र विधानमनुवर्ततेविधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥११॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि चकिंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥१२॥
ययातिरुवाचब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतःराजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥१३॥
देवयान्युवाचकेनास्यर्थेन नृपते इमं देशमुपागतःजिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया ॥१४॥
ययातिरुवाचमृगलिप्सुरहं भद्रे पानीयार्थमुपागतःबहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥१५॥
देवयान्युवाचद्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सहत्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥१६॥
ययातिरुवाचविद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनिअविवाह्या हि राजानो देवयानि पितुस्तव ॥१७॥
देवयान्युवाचसंसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥१८॥
ययातिरुवाचएकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गनेपृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥१९॥
देवयान्युवाचपाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरातं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥२०॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥२१॥
ययातिरुवाचक्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्दुराधर्षतरो विप्रः पुरुषेण विजानता ॥२२॥
देवयान्युवाचकथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥२३॥
ययातिरुवाचएकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यतेहन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥२४॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो ममअतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥२५॥
देवयान्युवाचदत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मयाअयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥२६॥
वैशंपायन उवाच
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनःश्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥२७॥
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिःववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥२८॥
देवयान्युवाचराजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥२९॥
शुक्र उवाच
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टयागृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥३०॥
ययातिरुवाचअधर्मो न स्पृशेदेवं महान्मामिह भार्गववर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥३१॥
शुक्र उवाच
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥३२॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्अनया सह संप्रीतिमतुलां समवाप्स्यसि ॥३३॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणीसंपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥३४॥
वैशंपायन उवाच
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥३५॥
End of chapter ॥
1

0
Adhyaya 76Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0