Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 77
Mahabharata · Adi Parva
वैशंपायन उवाच
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥१॥
देवयान्याश्चानुमते तां सुतां वृषपर्वणःअशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥२॥
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥३॥
देवयान्या तु सहितः स नृपो नहुषात्मजःविजहार बहूनब्दान्देववन्मुदितो भृशम् ॥४॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गनालेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥५॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणीददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥६॥
ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतःकिं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥७॥
देवयानी प्रजातासौ वृथाहं प्राप्तयौवनायथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥८॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिःअपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥९॥
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छयाअशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥१०॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनीप्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥११॥
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वातव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥१२॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदासा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥१३॥
ययातिरुवाचवेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥१४॥
अब्रवीदुशना काव्यो देवयानीं यदावहम्नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥
शर्मिष्ठोवाचन नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकालेप्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥१६॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्रएकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥१७॥
ययातिरुवाचराजा प्रमाणं भूतानां स नश्येत मृषा वदन्अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥१८॥
शर्मिष्ठोवाचसमावेतौ मतौ राजन्पतिः सख्याश्च यः पतिःसमं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥१९॥
ययातिरुवाचदातव्यं याचमानेभ्य इति मे व्रतमाहितम्त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥२०॥
शर्मिष्ठोवाचअधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादयत्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥२१॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतःयत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥२२॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवीसा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥२३॥
वैशंपायन उवाच
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान्पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥२४॥
समागम्य च शर्मिष्ठां यथाकाममवाप्य चअन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् ॥२५॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनीलेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥२६॥
प्रजज्ञे च ततः काले राजन्राजीवलोचनाकुमारं देवगर्भाभं राजीवनिभलोचनम् ॥२७॥
End of chapter ॥
1

0
Adhyaya 77Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0