Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 82
Mahabharata · Adi Parva
वैशंपायन उवाच
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनिपूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥१॥
देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशीअवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥२॥
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
शक्र उवाच
यदा स पूरुस्तव रूपेण राज;ञ्जरां गृहीत्वा प्रचचार भूमौतदा राज्यं संप्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥४॥
ययातिरुवाचगङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तवमध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥५॥
अक्रोधनः क्रोधनेभ्यो विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टःअमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥६॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतःआक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥
नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीतययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥८॥
अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥९॥
सद्भिः पुरस्तादभिपूजितः स्या;त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्सदासतामतिवादांस्तितिक्षे;त्सतां वृत्तं चाददीतार्यवृत्तः ॥१०॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानिपरस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥११॥
न हीदृशं संवननं त्रिषु लोकेषु विद्यतेयथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥१२॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन ॥१३॥
End of chapter ॥
1

0
Adhyaya 82Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0