Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 84
Mahabharata · Adi Parva
ययातिरुवाचअहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः ॥१॥
अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जेयो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥२॥
अष्टक उवाच
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित्यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥३॥
ययातिरुवाचप्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम्सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी ॥४॥
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मिएवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥५॥
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराःतत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥६॥
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्यातस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् ॥७॥
दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरःदिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् ॥८॥
भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित्धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥९॥
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याःतथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥१०॥
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम्किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥११॥
अष्टक उवाच
ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा चतन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥१२॥
ययातिरुवाचराजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वैतत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१३॥
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१४॥
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम्तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१५॥
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम्संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥१६॥
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥१७॥
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम्दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥१८॥
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यःवाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र ॥१९॥
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिःतानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥२०॥
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मिहविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥२१॥
End of chapter ॥
1

0
Adhyaya 84Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0