Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 9
Mahabharata · Adi Parva
सूत उवाच
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततःरुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥१॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहुअब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥२॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनीबान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥३॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदिसम्यगाराधितास्तेन संजीवतु मम प्रिया ॥४॥
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतःप्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥५॥
देवदूत उवाच
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषान तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥६॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुतातस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥७॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिःतं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥८॥
रुरुरुवाचक उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचरकरिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥९॥
देवदूत उवाच
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दनएवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१०॥
रुरुरुवाचआयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तमशृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥११॥
सूत उवाच
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौधर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥१२॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरासमुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥१३॥
धर्मराज उवाच
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसिउत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥१४॥
सूत उवाच
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरारुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥१५॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसःआयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥१६॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदाविवाहं तौ च रेमाते परस्परहितैषिणौ ॥१७॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम्व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥१८॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितःअभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥१९॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥२०॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदाअभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥२१॥
नापराध्यामि ते किंचिदहमद्य तपोधनसंरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥२२॥
End of chapter ॥
1

0
Adhyaya 9Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0